(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Aadiparv (Mahabharat) - आदिपर्व (महाभारत)


॥ श्रीः ॥
1.215. अध्यायः 215
Mahabharata - Adi Parva - Chapter Topics
युधिष्ठिरादीनां क्रमेण द्रौपद्याः पाणिग्रहणम्॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text

द्रुपद उवाच। 1-215-0x(1202)(9396)
अश्रुत्वैवं वचनं ते महर्षे
मया पूर्वं यतितं संविधातुम्।
न वै शक्यं विहितस्यापयानं
तदेवेदमुपपन्नं विधानम्॥ 1-215-1(9397)
दिष्टस्य ग्रन्थिरनिवर्तनीयः
स्वकर्मणा विहितं तेन किंचित्।
कृतं निमित्तमिह नैकहेतो-
स्तदेवेदमुपन्नं विधानम्॥ 1-215-2(9398)
यथैव कृष्णोक्तवती पुरस्ता-
न्नैकान्पतीन्मे भगवान्ददातु।
स चाप्येवं वरमित्यब्रवीत्तां
देवो हि वेत्ता परमं यदत्र॥ 1-215-3(9399)
यदि चैवं विहितः शङ्करेण
धर्मोऽधर्मो वा नात्र ममापराधः।
गृह्णन्त्विमे विधितत्पाणिमस्या
यथोपजोषं विहितैषां हि कृष्णा॥ 1-215-4(9400)
व्यास उवाच। 1-215-5x(1203)
नायं विधिर्मानुषाणां विवाहे
देवा ह्येते द्रौपदी चापि लक्ष्मीः।
प्राक्कर्मणः सुकृतात्पाण्डवानां
पञ्चानां भार्या देवदेवप्रसादात्॥ 1-215-5(9401)
तेषामेवायं विहितः स्याद्विवाहो
यथा ह्येष द्रौपदीपाण्डवानाम्।
अन्येषां नृणां योषितां च
न धर्मः स्यान्मानवोक्तो नरेन्द्र॥ 1-215-6(9402)
वैशम्पायन उवाच। 1-215-7x(1204)
तत आजग्मतुस्तत्र तौ व्यासद्रुपदावुभौ।
कुन्ती सपुत्रा यत्रास्ते धृष्टद्युम्नश्च पार्षतः।
ततो द्वैपायनः कृष्णो युधिष्ठिरमथागमत्॥' 1-215-7(9403)
ततोऽब्रवीद्भगवान्धर्मराज-
मद्यैव पुण्येऽहनि पाण्डवेय।
पुण्ये पुष्ये योगमुपैति चन्द्रमाः
पाणिं कृष्णायास्त्वं गृहाणाद्य पूर्वं॥ 1-215-8(9404)
`एवमुक्त्वा धर्मराजं भीमादीनप्यभाषत॥ 1-215-9(9405)
क्रमेण पुरुषव्याघ्राः पाणिं गृह्णन्तु पाणिभिः।
एवमेव मया सर्वं दृष्टमेतत्पुराऽनघाः॥ 1-215-10(9406)
वैशम्पायन उवाच। 1-215-11x(1205)
ततो राजा यज्ञसेनः सपुत्रो
जन्यार्थणुक्तं बहु तत्तदग्र्यम्।
`समर्थयामास महानुभावो
हृष्टः सपुत्रः सहबन्धुवर्गः।'
समानयामास सुतां च कृष्णा-
माप्लाव्य रत्नैर्बहुभिर्विभूष्य॥ 1-215-11(9407)
ततस्तु सर्वे सुहृदो नृपस्य
समाजग्मुः सहिता मन्त्रिणश्च।
द्रष्टुं विवाहं परमप्रतीता
द्विजाश्च पौराश्च यथाप्रधानाः॥ 1-215-12(9408)
ततोऽस्य वेश्माग्र्यजनोपशोभितं
विस्तीर्णपद्मोत्पलभूषिताजिरम्।
बलौघरत्नौघविचित्रमाबभौ
नभो यथा निर्मलतारकान्वितम्॥ 1-215-13(9409)
ततस्तु ते कौरवराजपुत्रा
विभूषिताः कुण्डलिनो युवानः।
महार्हवस्त्राम्बरचन्दनोक्षिताः
कृताभिषेकाः कृतमङ्गलक्रियाः॥ 1-215-14(9410)
पुरोहितेनाग्निसमानवर्चसा
सहैव धौम्येन यताविधि प्रभो।
क्रमेण सर्वे विविशुस्ततः सदो
महर्षभा गोष्ठमिवाभिनन्दिनः॥ 1-215-15(9411)
ततः समाधाय स वेदपरागो
जुहाव मन्त्रैर्ज्वलितं हुताशनम्।
युधिष्ठिरं चाप्युपनीय मन्त्रवि-
न्नियोजयामास सहैव कृष्णया॥ 1-215-16(9412)
प्रदक्षिणं तौ प्रगृहीतपाणी
समानयामास स वेदपरागः।
`विप्रांश्च संतर्प्य युधिष्ठिरो धनै-
र्गोभिश्च रत्नैर्विविधैश्च पूर्वम्॥ 1-215-17(9413)
तदा स राजा द्रुपदस्य पुत्रिका-
पाणिं प्रजग्राह हुताशनाग्रतः।
धौम्येन मन्त्रैर्विधिवद्भुतेऽग्नौ
सहाग्निकल्पैर्ऋषिभिः समेत्य॥ 1-215-18(9414)
ततोऽन्तरिक्षात्कुसुमानि पेतु-
र्ववौ च वायुः सुमनोज्ञगन्धः।
ततोऽभ्यनुज्ञाप्य समाजशोभितं
युधिष्ठिरं राजपुरोहितस्तदा॥ 1-215-19(9415)
विप्रांश्च सर्वान्सुहृदश्च राज्ञः
समेत्य राजानमदीनसत्वम्।
जगाद भूयोऽपि महानुभावो
वचोऽर्थयुक्तं मनुजेश्वरं तम्॥ 1-215-20(9416)
गृह्णन्त्वथान्ये नरदेवकन्या-
पाणिं यथावन्नरदेवपुत्राः।
तमभ्यनन्दद्द्रुपदस्तथा द्विजं
तथा कुरुष्वेति तमादिदेश॥ 1-215-21(9417)
पुरोहितस्यानुमतेन राज्ञ-
स्ते राजपुत्रा मुदिता बभूवुः।
क्रमेण चान्ये च नराधिपात्मजा
वरस्त्रियास्ते जगृहुः करं तदा॥' 1-215-22(9418)
अहन्यहन्युत्तमरूपधारिणो
महारथाः कौरववंशवर्धनाः॥ 1-215-23(9419)
इदं च तत्राद्भुतरूपमुत्तमं
जगाद देवर्षिरतीतमानुषम्।
महानुभावा किल सा सुमध्यमा
बभूव कन्यैव गते गतेऽहनि॥ 1-215-24(9420)
`पतिश्वशुरता ज्येष्ठे पतिदेवरताऽनुजे।
मध्यमेषु च पाञ्चाल्यास्त्रितयं त्रितयं त्रिषु॥' 1-215-25(9421)
कृते विवाहे द्रुपदो धनं ददौ
महारथेभ्यो बहुरूपमुत्तमम्।
शतं रथानां वरहेममालिनां
चतुर्युजां हेमखलीनमालिनाम्॥ 1-215-26(9422)
शतं गजानामपि पद्मिनां तथा
शतं गिरिणामिव हेमशृङ्गिणाम्।
तथैव दासीशतमग्र्ययौवनं
महार्हवेषाभरणाम्बरस्रजम्॥ 1-215-27(9423)
पृथक्पृथग्दिव्यदृशां पुनर्ददौ
तदा धनं सौमकिरग्निसाक्षिकम्।
तथैव वस्त्राणि विभूषणानि
प्रभावयुक्तानि महानुभावः॥ 1-215-28(9424)
कृते विवाहे च ततस्तु पाण्डवाः
प्रभूतरत्नामुपलभ्य तां श्रियम्।
विजह्रुरिन्द्रप्रतिमा महाबलाः
पुरे तु पाञ्चालनृपस्य तस्य ह॥ ॥ 1-215-29(9425)

इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि पञ्चदशाधिकद्विशततमोऽध्यायः॥ 215 ॥

Mahabharata - Adi Parva - Chapter Footnotes
1-215-26 चतुर्युजामश्वचतुष्टययुजाम्॥ पञ्चदशाधिकद्विशततमोऽध्यायः॥ 215 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.